|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.202. अध्यायः 202
Mahabharata - Adi Parva - Chapter Topics
ब्राह्मणमध्यस्थान्पाण्डवान्विज्ञाय श्रीकृष्णेन बलरामाय कथंन॥ 1 ॥ धनुर्दर्शनेनैव केषांचिद्राज्ञां धनुःपूरणे निरशत॥ 2 ॥ शिशुपालादीनां धनुःपूरणे भङ्गः॥ 3 ॥ अर्जुनस्य धनुःपूरणे एषणा॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-202-0x(1133)(8936)
तेऽलङ्कृताः कुण्डलिनो युवानः
परस्परं स्पर्धमाना नरेन्द्राः।
अस्त्रं बलं चात्मनि मन्यमानाः
सर्वें समुत्पेतुरुदायुधास्ते॥ 1-202-1(8937)
रूपेण वीर्येण कुले चैव
शीलेन वित्तेन च यौवनेन।
समिद्धदर्पा मदवेगभिन्ना
मत्ता यथा हैमवता गजेन्द्राः॥ 1-202-2(8938)
परस्परं स्पर्धया प्रेक्षमाणाः
सङ्कल्पजेनाभिपरिप्लुताङ्गाः।
कृष्णा ममैवेत्यभिभाषमाणा
नृपाः समुत्पेतुरथासनेभ्यः॥ 1-202-3(8939)
ते क्षत्रिया रङ्गगताः समेता
जिगीषमाणा द्रुपदात्मजां ताम्।
चकाशिरे पर्वतराजकन्या-
मुमां यथा देवगणाः समेताः॥ 1-202-4(8940)
कन्दर्पबाणाभिनिपीडिताङ्गां
कृष्णागतैस्ते हृदयैर्नरेन्द्राः।
रङ्गावतीर्णा द्रुपदात्मजार्थं
द्वेषं प्रचक्रुः सुहृदोऽपि तत्र॥ 1-202-5(8941)
अथाययुर्देवगणा विमानै
रुद्रादित्या वसवोऽथाश्विनौ च।
साध्याश्च सर्वे मरुतस्तथैव
यमं पुरस्कृत्य धनेश्वरं च॥ 1-202-6(8942)
दैत्याः सुपर्णाश्च महोरगाश्च
देवर्षयो गुह्यकाश्चारणाश्च।
विश्वावसुर्नारदपर्वतौ च
गन्धर्वमुख्याः सहसाऽप्सरोभिः॥ 1-202-7(8943)
हलायुधस्तत्र जनार्दनश्च
वृष्ण्यन्धकाश्चैव यताप्रधानम्।
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते
स्थिताश्च कृष्णस्य मते महान्तः॥ 1-202-8(8944)
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपा-
न्पञ्चाभिपद्मानिव वारणेन्द्रान्।
भस्मावृताङ्गानिव हव्यवाहान्
कृष्णः प्रदध्यौ यदुवीरमुख्यः॥ 1-202-9(8945)
शशंस रामाय युधिष्ठिरं स
भीमं सजिष्णुं च यमौ च वीरौ।
शनैःशनैस्तान्प्रसमीक्ष्य रामो
जनार्दनं प्रीतमना ददर्श ह॥ 1-202-10(8946)
अन्ये तु वीरा नृपपुत्रपौत्राः
कृष्णागतैर्नत्रमनःस्वभावैः।
व्यायच्छमाना ददृशुर्न तान्वै
सन्दष्टदन्तच्छदताम्रनेत्राः॥ 1-202-11(8947)
तथैव पार्थाः पृथुबाहवस्ते
वीरौ यमौ चैव महानुभावौ।
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे
कन्दर्पबाणाभिहता बभूवुः॥ 1-202-12(8948)
देवर्षिगन्धर्वसमाकुलं त-
त्सुपर्णनागासुरसिद्धजुष्टम्।
दिव्येन गन्धेन समाकुलं च
दिव्यैश्च पुष्पैरवकीर्यमाणम्॥ 1-202-13(8949)
महास्वनैर्दुन्दुभिनादितैश्च
बभूव तत्सङ्कुलमन्तरिक्षम्।
विमानसंबाधमभूत्समन्ता-
त्सवेणुवीणापणवानुनादम्॥ 1-202-14(8950)
`समाजवाटोपरि संस्थितानां
मेघैः समन्तादिव गर्जमानैः।'
ततस्तु ते राजगणाः क्रमेण
कृष्णानिमित्तं कृतविक्रमाश्च।
सकर्णदुर्योधनशाल्वशल्य-
द्रौणायनिक्राथसुनीथवक्राः॥ 1-202-15(8951)
कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा
विदेहराजो यवनाधिपश्च।
अन्ये च नानानृपपुत्रपौत्रा
राष्ट्राधिपाः पङ्कजपत्रनेत्राः॥ 1-202-16(8952)
किरीटहाराङ्गदचक्रवालै-
र्विभूषिताङ्गाः पृथुबाहवस्ते।
अनुक्रमं विक्रमसत्वयुक्ता
बलेन वीर्येण च नर्दमानाः॥ 1-202-17(8953)
तत्कार्मुकं संहननोपपन्नं
सज्यं न शेकुर्मनसाऽपि कर्तुम्।
ते विक्रमन्तः स्फुरता दृढेन
विक्षिप्यमाणा धनुषा नरेन्द्राः॥ 1-202-18(8954)
विचेष्टमाना धरणीतलस्था
यथाबलं शैक्ष्यगुणक्रमाश्च।
गतौजसः स्नस्तकिरीटहारा
विनिःश्वसन्तः शमयांबभूवुः॥ 1-202-19(8955)
हहाकृतं तद्धनुषा दृढेन
विस्रस्तहाराङ्गदचक्रवालम्।
कृष्णानिमित्तं विनिवृत्तकामं
राज्ञां तदा मण्डलमार्तमासीत्॥ 1-202-20(8956)
`एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः।
चेदीनामधिपो वीरो बलवानन्तकोपमः॥ 1-202-21(8957)
दमघोषात्मजो धीमाञ्शिशुपालो महाद्युतिः।
धनुषोऽभ्याशमागम्य तस्थौ राज्ञां समक्षतः॥ 1-202-22(8958)
तदप्यारोप्यमाणं तु माषमात्रेऽभ्यताडयत्।
धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम्॥ 1-202-23(8959)
तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान्।
ततो राजा जरासन्धो महावीर्यो महाबलः॥ 1-202-24(8960)
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः।
मत्तवारणताम्राक्षो मत्तवारणवेगवान्॥ 1-202-25(8961)
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः।
धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत्॥ 1-202-26(8962)
ततः शल्यो महावीर्यो मद्रराजो महाबलः।
धनुरारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत्॥ 1-202-27(8963)
तदैवागात्स्वयं राज्यं पश्चादनवलोकयन्।
इदं धनुर्वरं कोऽद्य सज्यं कुर्वीत पार्थिवः॥ 1-202-28(8964)
इति निश्चित्य मनसा भूय एव स्थितस्तदा।
ततो दुर्योधनो राजा धार्तराष्ट्रः परन्तपः॥ 1-202-29(8965)
मानी दृढास्त्रसंपन्नः सर्वैश्च नृपलक्षणैः।
उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः॥ 1-202-30(8966)
विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत्।
स बभौ धनुरादाय शक्रश्चापधरो यथा॥ 1-202-31(8967)
धनुरारोपयामास तिलमात्रेऽभ्यताडयत्।
आरोप्यमाणं तद्राजा धनुषा बलिना तदा॥ 1-202-32(8968)
उत्तानशय्यमपतदङ्गुल्यन्तरताडितः।
स ययौ ताडितस्तेन व्रीडन्निव नराधिपः॥ 1-202-33(8969)
ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः।
धनुरभ्याशमागम्य तोलयामास तद्धनुः॥ 1-202-34(8970)
तं चाप्यारोप्यमाणं तद्रोममात्रेऽभ्यताडयत्।
त्रैलोक्यविजयी कर्णः सत्वे त्रैलोक्यविश्रुतः॥ 1-202-35(8971)
धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः।
एवं कर्णे विनिर्धूते धनुषा च नृपोत्तमाः॥ 1-202-36(8972)
चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः।
दृष्ट्वा कर्णं विनिर्धूतं लोके वीरा नृपोत्तमाः॥ 1-202-37(8973)
निराशा धनुरुद्धारे द्रौपदीसंगमेऽपि च॥ 1-202-38(8974)
तस्मिंस्तु संभ्रान्तजने समाजे
निक्षिप्तवादेषु जनाधिपेषु।
कुन्तीसुतो जिष्णुरियेष कर्तुं
सज्यं धनुस्तत्सशरं च वीरः॥ 1-202-39(8975)
ततो वरिष्ठः सुरदानवाना-
मुदरधीर्वृष्णिकुलप्रवीरः।
जहर्ष रामेण स पीड्य हस्तं
हस्तंगतां पाण्डुसुतस्य मत्वा॥ 1-202-40(8976)
न जज्ञिरेऽन्ये नृपविप्रमुख्याः
संछन्नरूपानथ पाण्डुपुत्रान्।
विना हि लोके च यदुप्रवीरौ
धौम्यं हि धर्मं सह सोदरांश्च॥ ॥ 1-202-41(8977)
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि द्व्यधिकद्विशततमोऽध्यायः॥ 202 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-202-3 संकल्पजेन कामेन॥ 1-202-9 अभितः पद्मा लक्ष्मीर्येषां तान्सर्वाङ्गसुन्दरानित्यर्थः॥ द्व्यधिकद्विशततमोऽध्यायः॥ 202 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|